नवदेहली। केन्द्रीयगृहमन्त्री अमितशाहः बिहारस्य सीतामढ़ीमण्डलस्य पुनौराधामस्थस्य जानकी मन्दिरस्य पुनर्विकासस्य शिलान्यासं कृतवान् यत् देवीसीतायाः जन्मभूमिः इति मन्यते। ८८२.८७ कोटिरूप्यकाधिकं व्ययस्य अस्याः परियोजनायाः शिलान्यासे मुख्यमन्त्री नीतीश कुमारः, अनेके केन्द्रीय मन्त्रिणः अन्ये च गणमान्यजनाः अपि उपस्थिताः आसन। अमितशाहः सर्वप्रथमं सीता देव्याः मन्दिरे प्रार्थनां कृतवान्। राज्यमन्त्रि मण्डलेन १ जुलै दिनाङ्के मन्दिर सङ्कुलस्य एकीकृत विकासाय ८८२.८७ कोटिरूप्यकाणां अनुमोदनं कृतम्। कुलराशितः पुरातनमन्दिरस्य परिसरस्य च विकासाय १३७ कोटि रूप्यकाणि व्ययितानि भविष्यन्ति, पर्यटन सम्बद्धेषु कार्येषु ७२८कोटिरूप्यकाणिव्ययितानिभविष्यन्ति। एतदतिरिक्तं १० वर्षाणि यावत् व्यापक-रक्षणाय १६कोटिरूप्यकाणि व्ययितानि भविष्यन्ति। बिहार राज्यपर्यटन विकास निगमः (बीएसटीडीसी) एतां परियोजनां कार्यान्वयिष्यति। राज्यसर्वकारेण अद्यैव मन्दिरस्य निर्माणार्थं पुनर्विकासाय च मुख्य सचिवस्य नेतृत्वे नवसदस्यीयन्यासस्य गठनं कृतम्। बिहार विधानसभानिर्वाचनं समीपंगच्छति चेत्भाजपा, जदयू, लोजपा च समाविष्टं एनडीए पुनः बिहारे सत्तां स्थापयितुं प्रयतते, राजद, काङ्ग्रेस, वामपक्षं च समाविष्टं भारतखण्डं च नीतीशकुमारं सत्तातः निष्कासयितुं प्रयतते। २४३ सदस्यानां वर्तमान बिहार विधान सभायां राष्ट्रिय लोकतान्त्रिक गठबन्धनस्य १३१ सदस्याः सन्ति, येषु भाजपा पक्षस्य ८०, जदयू पक्षस्य ४५, हैम (एस) पक्षस्य ४ विधायकानां, २ निर्दलीयानां च समर्थनम्अस्तिबिहारेविधान सभानिर्वाचनं अस्मिन् वर्षअन्ते,अक्टोबर्-मासेनवम्बर-मासे वा भविष्यति इति अपेक्षा अस्ति। परन्तु भारतीय निर्वाचन आयोगेन आधिकारिक तिथिः न घोषिता।






