वार्ताकार: दीनदयालशुक्ल:/ केन्द्रीय संस्कृत विश्वविद्यालयस्य गङ्गानाथ झा परिसरान्तर्गत भारतीय ज्ञानपरम्पराकेन्द्रेण द्विसहस्राधिकपञ्चविंशतितमे खीष्टाब्दे दशममासस्य त्रयोदशे दिनाङ्के (१३.१०.२०१५) परिसरीय सभागारे भारतीय ज्ञानपरम्परायाम् अनुसन्धानम् इति विषयम् अधिकृत्य षष्ठदिवसीयायाः राष्ट्रिय कार्यशालायाः उद्घाटनसत्रस्य आयोजनम् अभवत्। अस्यां कार्यशालायां देशस्य ख्यातिलब्धैः विद्वद्भिः प्रख्यात शिक्षाविद्भिश्च व्याख्यानानि प्रदास्यन्ते। उद्घाटन सत्रस्य मुख्यातिथिः भारत शासनस्य शिक्षा मन्त्रालयस्य भारतीय ज्ञानपरम्परा केन्द्रस्य राष्ट्रियसमन्वयकः प्रो॰मूर्तिगन्टी॰एस्॰ आसीत्। सः भारतीयज्ञानपरम्पराक्षेत्रे अनुसन्धानस्य सम्भावनाः लब्धावसरान् च उपस्थितान् सर्वान् अवबोधयत्। भारतीयज्ञानपरम्परायाः अध्ययनं भारतीयसंस्कृतेः परिचयाय सुयोग इति प्रोत्तäवा स छात्रान् अस्मिन् क्षेत्रे अनुसन्धानाय प्रेरयामास। स्व वक्तव्ये सः आलेखचित्राणां प्रस्तुतीकरणस्य च माध्यमेन वर्तमानदृष्ट्या प्राचीनायाः गौरवशालिन्याश्च परम्परायाः समृद्धेः अनुभवमेव भारतीय ज्ञान परम्परायाः आधारं प्रत्यपादयत्। उद्घाटनसत्रस्य सारस्वतातिथिः हैदराबाद विश्वविद्यालयस्य निवृत्ताचार्यः प्रो॰सुब्रह्मण्यम्कोराडः अभवत्। सः स्वव्याख्याने भारतीय ज्ञान परम्परायाः गाम्भीर्यम् अवबोधयत्। स्वसारगर्भित वचनेषु सः वेदेषु मीमांसा शास्त्रे च उपलब्धानां शब्दानां विश्लेषणम् अकरोत्। कार्यक्रमस्य विशिष्टातिथिः केन्द्रीय संस्कृत विश्वविद्यालयस्य देवप्रयागस्थस्य रघुनाथकीर्तिपरिसरस्य निदेशकः प्रो॰ सुब्रह्मण्यम्पी॰वी॰बी॰ अपि आसीत्। सः स्वभाषणे भारतीयज्ञानपरम्परया विश्वस्मै कृतम् अवदानम् इति विषयं विस्तरेण चर्चयामास। तेन अनुसन्धानस्य भारतीयाः पद्धतयः शास्त्रीयग्रन्थेषु निहितं ज्ञानं तथा आधुनिकानुसन्धानाय तेषाम् उपयोगश्च प्रकाशमानीतः। कार्यक्रमेऽस्मिन् भारतीयज्ञानपरम्परायाः मूर्धन्यविद्वान् प्रो॰पेजात्तेयरामकृष्णः अन्यतमः विशिष्टातिथित्वेन समुपस्थितः आसीत्। कार्यशालायाः उद्घाटन सत्रस्य अध्यक्षतां वहन् परिसरनिदेशकः प्रो॰त्रिपाठिललितकुमारः स्वकीयम् अध्यक्षीयम् उद्बोधनम् अददात्। सः भारतीय ज्ञान परम्परायाम् अनुसन्धानस्य गुणवत्तायां मौलिकतायां च विशेषबलम् अददात्। इदम् अनुसन्धानमात्रे न सीमयेत्अपितु भारतीयसंस्कृतेः सभ्यतायाश्च दिव्यतायाः अनुभवाय विशेषः अवसर इति सः अकथयत्। तेनोक्तं यत् भारतीयज्ञानपरम्परायाः अध्ययनं न केवलं ज्ञानं वर्धयति अपितु अस्माकं सांस्कृतिक मूलानि अपि दृढी करोति। देशस्य विभिन्नभागेभ्यः समागतान् प्रतिभागिनः छात्रान् च स्वागत्य सः सर्वेभ्यः इमां कार्यशालाम् अतिमहत्त्वपूर्णां विशिष्टां च न्यगदत्।
कार्यक्रमस्य प्रारम्भे उपस्थितानां सर्वेषाम् अतिथीनां शिक्षकाणां विदुषां च स्वागतं परिसरस्य उपनिदेशकः प्रो॰ सरोदे देवदत्तः अकरोत्। उद्घाटनसत्रस्य सञ्चालनं परिसरीय सहायकाचार्यः डो॰ त्रिवेदिय शवन्तकुमारः सम्पाद यामास। अस्यां कार्य शालायांदेशस्य विभिन्न राज्येभ्यः शोधच्छात्राः अध्यापकाश्च भागं गृह्णन्ति। उद्घाटनसत्रे धर्मशास्त्र विभागाध्यक्षः प्रो॰ पाण्डेय रामकृष्णः परमहंसः वेदविभागाध्यक्षः प्रो॰मिश्र मनोज कुमारः डो॰ पाण्डेय सुरेशः श्रीः मिश्रः अज्र्तिः श्रीः तिवारि राजेशकान्तः सुश्रीः लङ्के अश्विनी तथा परिसरीयाः सर्वे सदस्याश्च उपस्थिताः आसन्।






