भारतस्य आन्तरिकजलमार्गप्राधिकरणस्य उत्तरप्रदेशसर्वकारस्य च मध्ये गत शुक्रवासरे महत्त्वपूर्ण समझौता पत्रे हस्ताक्षरं कृतम्। अस्मिन् सम्झौते वाराणसी नगरे अत्याधुनिकं जहाजमरम्मतसुविधा विकसितं भविष्यति, यत्र क्रूज्, माल वाहक, अन्येषां जहाजानां मरम्मतं भविष्यति एषा उपक्रमः न केवलं पूर्वभारते जलपरिवहन जालस्य सुदृढीकरणं करिष्यति अपितु स्थानीय-अर्थ व्यवस्थायाः, रोजगार क्षेत्रस्य च महत्त्वपूर्णरूपेण परिवर्तनं करिष्यति। अधिकारिणां मते अस्याःआधुनिकसुविधायाः उद्घाटनेन नदीजहाजानां सुलभ मरम्मतं,जहाजानां निवाससमयः न्यूनीकरिष्यते, परिचालनदक्षता च वर्धते। पूर्वं समुद्रतटे जहाजमरम्मतकेन्द्राणि निर्मिताः आसन्, परन्तु देशे एतत् प्रथमं नदीतीरे निर्मितं केन्द्रम् अस्ति। क्रूज, मालवाहक, अन्येषां जहाजानां मरम्मतार्थं स्वचालित नियन्त्रण यन्त्राणां उपयोगः भविष्यति। अस्य केन्द्रस्य निर्माणेन न केवलं वाराणसी अपितु पूर्वोत्तरस्य अन्यराज्यानां अपि लाभः भविष्यति। रामनगरे निर्मितस्य अस्य केन्द्रस्य निर्माणार्थं उत्तरप्रदेशसर्वकारस्य आईवाई आइ-इत्यस्य च मध्ये ज्ञापनपत्रे हस्ताक्षरं कृतम् इति इवायाई वाराणसी निदेशकः संजीवकुमारः अवदत्। अधुना तस्य निर्माणं त्वरितं भविष्यति। अस्य केन्द्रस्य निर्माणेन न केवलं स्थानीय अर्थव्यवस्थायाः लाभः भविष्यति।
अपितु स्थानीयरोजगारस्य वृद्धिः अपि भविष्यति।






