
प्रयागराज:। प्रयागराजे १२ जुलाईतः आरभ्य काँवर यात्रायाः विषये पुलिस-प्रशासनं पूर्णतया सजगं जातम्। तस्मिन्मुख्यालयस्यअपर पुलिस विधिव्यवस्था आयुक्तः, पुलिस उपायुक्तः, पुलिस सहायक आयुक्तः तथा च सर्वे थाना प्रभारी भागं गृहीतवन्तः। संगोष्ठ्यां कांवड़ यात्रायाः समये भक्तानां सुरक्षा, सुचारु यातायातस्य, विधिव्यवस्था च निर्वाहयितुम् अनेके महत्त्वपूर्णाः निर्देशाः दत्ताः। सर्वेभ्यः थानाप्रभारीभ्यः स्व क्षेत्रेषु बैरिकेडिंग्,सीसीटीवी कैमरा व्यवस्था, जन सङ्ख्यायुक्तेषु स्थानेषु गस्तीकरणं, समये समये जाँचः च कर्तुं निर्देशः दत्तः अस्ति। महिलानां सुरक्षायाः विषये विशेषं बलं दत्त्वा तत्सम्बद्धानां शिकायतांप्राथमिकतायां निराकरणं कर्तुं कथितम् अस्ति। कांवड़यात्रायाः दृष्ट्या १२ जुलै दिनाङ्के रात्रौ ११:५५ वादनतः १५ जुलाई १० वादनपर्यन्तं यातायात विपथनं कार्यान्वितं भविष्यति। एतस्य अतिरिक्तं सावनस्य विशेषपर्वसु यथा सोमवासर, नागपञ्चमी, शिवरात्रि, रक्षाबन्धन इत्यादिषु अपि डायवर्सन व्यवस्था प्रयोज्यः भविष्यति। शास्त्रीसेतुतः हण्डिया पर्यन्तं मार्गस्य एकः लेनः कांवड़िया जनानाम् कृते आरक्षितः अस्तिवैकल्पिक मार्गस्य व्यवस्था कानपुरतः वाराणसीं प्रति गच्छन्तीनां वाहनानां प्रेषणं फतेहपुर, रायबरेली, प्रतापगढ मार्गेण भविष्यति। लखनऊतः आगच्छन्तः वाहनाः उन्चहार, जौनपुरमार्गेण गमिष्यन्ति। चित्रकूटतः रीवानतः प्रयागराजं प्रति आगच्छन्तः वाहनाः अपि वैकल्पिकमार्गेण गमिष्यन्ति। सुरक्षाबलाः व्यवस्थाः च महत्त्वपूर्ण स्थानेषु पुलिस, गृह रक्षकाणां, ११२ वाहनानां, जलपुलिसस्य च्परिनियोजनं सुनिश्चितं क्रियते। संगम, शिवमन्दिरादिषु जनसङ्ख्यायुक्तेषु स्थानेषु विशेष सुरक्षाव्यवस्था क्रियन्ते।
अत्यावश्यकसेवानां वाहनानां कृते प्रवेशस्थानानि न चिह्नितानि, वैकल्पिकप्रवेशमार्गाः निर्धारिताः च। भक्ताः सुरक्षिततया,व्यवस्थिततया,शान्तिपूर्णतयाचस्वस्य धार्मिक यात्रायाः समापनम् अस्य प्रशासनस्य उद्देश्यम् अस्ति।