प्रयागराज:। वार्ताहर:। इफ्फको फुलपुरे शीत लहरस्य रक्षार्थै कम्बल वितरणं आयोजितम् सामाजिक उत्तरदायित्व उपक्रमस्य भागरूपेण इफ्फको फुलपुर इकाई द्वारा ग्रामपंचायत भवन, चक अब्दुल करीम उर्फ शुद्ध-भुलाई, फुलपुरे ग्रामजनानां विशेषतया दिव्याङ्गजनानाम् महिलानां कृते कम्बलवितरणकार्यक्रमस्य आयोजनं कृतम्। कम्बलानि वितरितानि पी.के. सिंह, महाप्रबन्धक, इफ्फको (फुलपुर इकाई) द्वारा क्रियतेस्म। आयोजनं ग्रामप्रमुखं श्रीमती पुष्पादेवी इत्यस्याः उपस्थित्या शोभितवती। सहैव श्री कमलेश यादव (मुख्य प्रतिनिधि), श्री विजय विश्वकर्मा, श्री शंभू शेखर, श्री पंकज पाण्डे, अध्यक्ष (इफ्फको कर्मचारी संघ), श्री संतलाल यादव, श्री विजय कुमार यादव (महासचिव, इफ्फको कर्मचारी संघ), तथा धर्मसिंह: उपस्थिता: आसन्। सर्वे अतिथयः इफ्फ्को-संस्थायाः जनकल्याणकारी-उपक्रमस्य प्रशंसाम् अकरोत्। सम्बोधने श्री पी.के. सिंहः अवदत् यत् इफ्को समाजस्य प्रति स्वस्य उत्तरदायित्वं स्वीकृत्य सदैव आवश्यकतावशात् सह स्थितवान् अस्ति, भविष्ये अपि एतादृशं सामाजिकं कार्यं करिष्यति। सः शिशिरऋतौ कम्बलवितरणं मानवीयभावनासम्बद्धं महत्त्वपूर्णं सोपानं इति वर्णितवान् ।






