कण्वनगर्यां साहित्याञ्चलस्य भव्या काव्यसभा सम्पन्ना

वार्ताहर:-कुलदीपमैन्दोला। स्वातन्त्र्यदिवसस्य पूर्व सन्ध्यायां पुण्यतोयाया मालिन्यास्तटे स्थितायां कण्वर्षेराश्रम भूमौ कोटद्वारनगर्यां साहित्याञ्चलनाम्नी साहित्यिकी संस्था स्वकीयस्य त्रिपञ्चाशत्तमस्य स्थापना वर्षस्योपलक्ष्ये पौरसभाभवने एकां महामहात्मिकां काव्यगोष्ठीं समायोजितवती। कार्यक्रम स्यारम्भस्तु गुरुरामरायविद्यालयस्य छात्रैः श्रीमती जखमोला कौशल्यया च सम्यक्प्रस्तुतया वाग्देव्या वन्दनया समभवत्। येन समग्रः परिसरः साहित्यिक सांस्कृतिक भावेन परिप्लुतोऽभूत्। अस्मिन् कार्यक्रमे नगरप्रमुखो रावतशैलेन्द्रसिंहः वरिष्ठसाहित्यकारो बर्त्वालचन्द्र मोहनः साहित्यरसिको नैथानीप्रकाशचन्द्रो विद्वान् शर्मानुरागश्च विशिष्टातिथिरूपेण समुपस्थिता आसन्। अतिथिभिः साहित्याञ्चलस्य दीर्घकालिकी साहित्यसेवा भृशं प्रशस्ता। तैरुक्तं यत् संस्थया न केवलं कोटद्वारेऽपि तु समग्रे गढवालक्षेत्रे साहित्यचेतनायाः संवर्धनेऽमूल्यमवदानं कृतमस्ति। काव्यगोष्ठ्याः कुशलं सञ्चालनम् अमोलीशशिभूषणमहाभागेन व्यधायि। मञ्चस्थाः कवयः राष्ट्रभक्तिं सामाजिकचिन्तनं मानवीयाः संवेदनाश्चाश्रित्य स्वरचनाः प्रस्तूय श्रोतणां मनांसि जह्रुः। अत्र स्थानीयाः कवयस्तु समुपस्थिता एवासनपि तु बहिरागताः साहित्यकारा अपि स्वरचनाभिर्वातावरणं भावोत्साहपूर्णम् अकुर्वन्। सभां सम्बोधयन् नगरप्रमुखो रावतशैलेन्द्रसिंह उक्तवान् यत् साहित्यं समाजस्यात्मा भवति यदस्मान् स्वसंस्कृत्या परम्परया च सह योजयति। तेनेदं सबलमुक्तं यन्नगरस्य भौतिकविकासेन सह सांस्कृतिकसाहित्यिकचेतनाया विकासोऽपि तावानेवा वश्यकः। स आयोजकेभ्यः साधुवादान् वितीर्य आशामकरोत् यदेतादृशैः समारोहैर्नगरे साहित्यिकं वातावरणम् अधिकं प्रगाढं भविष्यति युवपीढिश्च सृजनात्मकाभिव्यक्तयेऽवसरान् प्राप्स्यति।
ज्येष्ठसाहित्यकारो बर्त्वालचन्द्रमोहनः स्वविचारान् प्रकटयन् व्याजहार यत् साहित्यं न केवलं शब्दराशिः किन्तु समाजस्य स दर्पणो यत्र नो हर्षविषादौ सङ्घर्षाः स्वप्नाः संवेदनाश्च प्रतिबिम्बिता भवन्ति। तेनोक्तं यदद्यतने युगे साहित्यकारस्य गुरुतरं दायित्वं वर्तते यतो हि तेन समाजः सजगः संवेदनशीलः प्रबुद्धश्च करणीयः। स युवाकविभ्यः स्वकाव्येषु मौलिकतां मानवीयभावांश्च प्राधान्येन स्थापयितुं प्रेरणां दत्तवान्।
साहित्यानुरागी नैथानीप्रकाशचन्द्र उवाच यत्साहित्यिक कार्यक्रमेषु भागग्रहणं मह्यं सर्वदैवात्मिकसन्तोषस्य विषयो भवति। साहित्यं मानवान्तरे मानवीयान् गुणान् पुष्णाति परस्परं सन्निकृष्टांश्च करोति। स आयोजकानां प्रशंसां कुर्वन्नकथयद् यदीदृशा एव समारोहाः सामाजिकसमरसतां सांस्कृतिकचेतनां च जीवन्तीं रक्षन्ति। विद्वान् शर्मानुरागोऽप्यवदत् यद्वाङ्मयं न केवलं पठनवस्तु अपि तु जीवनस्यैका पद्धतिरस्ति। यदा वयं साहित्येन युज्यामहे तदास्माकं हृदयेषु सहानुभूतिः संवेदना विवेकश्च वर्धन्ते। स उपस्थित साहित्यकारान् आहूतवान् यत्ते स्वलेखनमाध्यमेन समाजे सकारात्मक परिवर्तनाय यतेरन्। अनेन समारोहेण नगरस्य सांस्कृतिकचेतनायै महत्त्वपूर्णः पदक्षेपः कृत इति तेन मतम्। साहित्याञ्चलस्यायं महोत्सवो नगरवासिभ्यो न केवलं साहित्यिकमानन्दं प्रादात् प्रत्युत स्वातन्त्र्यदिवसस्य प्राक्सायं काव्यगानेन गौरव मण्डितमप्यकरोत्। अन्ते च संस्थापक्षतः सर्वेषामतिथीनां भागग्राहिणां च कृते कृतज्ञता ज्ञापिता?

  • editor

    Related Posts

    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    देहरादून/वार्ताहर:। हरिद्वारनगरे देवसंस्कृति विश्वविद्यालयेन आयोजिते ध्वजारोहण समारोहे मुख्यमन्त्री पुष्करसिंह धामी, केन्द्रीय संस्कृति पर्यटन मन्त्री गजेन्द्रसिंह शेखावतः च भागं गतवन्तौ।वक्तारः गायत्री परिवारस्य शताब्दी समारोहं भारतीय संस्कृतेः,सेवायाः, आध्यात्मिक व्यवहारस्य च पुन र्जागरणस्य…

    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    आनन्द शुक्ल। २०२६ तमे वर्षे बीएमसी-निर्वाचने भाजपा-शिवसेना-सङ्घटनेन ऐतिहासिकं विजयं प्राप्तम्, एकैकंबृहत्तमं दलं रूपेण उद्भूतम्। एतेन विजयेन ठाकरे-परिवारस्य दशक त्रयपर्यन्तं कृतं वर्चस्वं समाप्तं भवति। बीएमसी-मध्ये २२७ वार्डेषु बहुमतस्य अंकः ११४ अस्ति,…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    • By editor
    • January 19, 2026
    • 97 views
    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    • By editor
    • January 19, 2026
    • 55 views
    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    • By editor
    • January 19, 2026
    • 45 views
    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    • By editor
    • January 19, 2026
    • 39 views
    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    वरिष्ठानां कनिष्ठानां च नेतृणाम् मध्ये सन्तुलनं स्थापयितुं नितिन नबिनस्य कृते महती आह्वानं भविष्यति

    • By editor
    • January 19, 2026
    • 53 views
    वरिष्ठानां कनिष्ठानां च नेतृणाम् मध्ये सन्तुलनं स्थापयितुं नितिन नबिनस्य कृते महती आह्वानं भविष्यति

    ए.आर.रहमानः हिन्दी-चलच्चित्रं धर्मस्य चश्मेन दृष्ट्वा गम्भीरं त्रुटिं कृतवान्

    • By editor
    • January 19, 2026
    • 78 views
    ए.आर.रहमानः हिन्दी-चलच्चित्रं धर्मस्य चश्मेन दृष्ट्वा गम्भीरं त्रुटिं कृतवान्

    You cannot copy content of this page