ऐदम्प्राथम्येन द्वीपान्तरसंस्कृतप्रतिष्ठाने इन्दोनेशियाराष्ट्रस्य बलीप्रान्ते बाली-भारतीयप्रधानवाणिज्यदूतावासस्य

वार्ताहरः-आचार्यः विशालप्रसादभट्टः, बाली, इन्दोनेशिया/सोमवासरे,भारतस्य नवदेहलीस्थस्य केन्द्रीयसंस्कृतविश्वविद्यालयस्य मुक्तस्वाध्यायपीठेन इन्दोनेशियाराष्ट्रस्य बलीप्रान्तस्य द्वीपान्तरसंस्कृत प्रतिष्ठानस्य मार्कण्डेय गुरुकुले संस्कृताध्ययन कार्यक्रमाङ्ग तया संस्कृताध्ययनकेन्द्रं समुद्घाटितम्। गुरुकुलच्छात्रैः वैदिकमन्त्रोच्चारणपुरस्सरं सरस्वती वन्दनया ध्येयमन्त्रेण च कार्यक्रमस्यास्य शुभारम्भो विहितः। तदनु बाली, लोम्बोक्, जावा, इत्यादीनां द्वीपानां संयोजकः श्रीसुयशमहोदयः समागतातिथीनां परिचयपुरस्सरं संस्कृतपुस्तकसमर्पणेन स्मृतिचिह्न प्रदानेन स्वागतं व्याहरत्। प्रास्ताविकोद्बोधने तेनोक्तं यत् गतनवेम्बर मासे संस्कृतभारत्याः अखिल भारतीयाधिवेशनावसरे केन्द्रीय संस्कृत विश्वविद्यालयस्य यशस्विनां मान्यमान्यानां कुलपतिवर्याणाम् आचार्य श्री निवासवर खेडि महाभागानां कुशलमार्गदर्शने मुक्तस्वाध्याय पीठस्य मान्यानां निदेशकवर्याणाम् आचार्यरत्न मोहन झा महोदयानां एवञ्च द्वीपान्तर संस्कृत प्रतिष्ठानस्य न्यासिनां श्रीसुमेशसोमवर्याणाम् अध्यक्षा णाम् इ मदे धनञ्जयवर्याणां सन्निधौ उभयोर्स स्थयोः परस्परं सहमतिपत्रं हस्ताक्षरित मभूत्। एतत्संस्कृताध्ययन केन्द्रस्य समुद्घाटनेन इन्दोनेशियाभारतदेशयोर्मध्ये पूर्ववत् संस्कृतसंस्कृत्योः दृढसम्बन्धः पुनर्स्थापितो भवेदिति आशास्महे। कार्यक्रमस्यास्य समुद्घाटकः मुख्यातिथिः बाली-भारतीयप्रधानवाणिज्य दूतावासस्य महावाणिज्यदूतः माननीयः डॉ. शशाज्र् विक्रममहाभागः कम्पुल् इति विशेषवाद्यं त्रिवारं नादयित्वा कार्यक्रमं समुद्घाट्य प्राभाषत यत् इन्दोनेशिया भारतदेशयोर्मध्ये सहस्रवर्षेभ्यः संस्कृत संस्कृति सम्बन्धः वर्तते, एवञ्च उभयोर्राष्ट्रयोर्मध्ये बहुकालात् परस्परं ज्ञानस्य आदनप्रदानमासीत्। तेनोक्तं यत् भवन्तः संस्कृता ध्ययन केन्द्रमाध्यमेन संस्कृत भाषाध्ययनं विधाय अग्रे योगायुर्वेदभगवद्गीतारामायणमहाभारतादीनां संस्कृतग्रन्थानां च गभीराध्ययनं कर्तुं समर्थाः भविष्यन्ति।
तदनन्तरं कार्यक्रमस्य विशिष्टातिथिः भारतीय सांस्कृतिक सम्बन्धपरिषदः बालीस्थ-स्वामिविवेकानन्दकेन्द्रनिदेशकः श्रीनवीनमेघवालमहोदयः आशंसाभाषणे प्रोक्तवान् यत् न केवलं मानवजीवनस्य सर्वाङ्गीणविकासाय अपितु निखिल स्यापि प्रपञ्चस्य मानवानां सर्वाभ्युदयाय च संस्कृताध्ययनं परमावश्यकम्। संस्कृताध्ययनेन मानवेषु दुष्टप्रकृतेः निवारणं भवति सद्प्रवृत्तीनाञ्च सम्वर्धनं जायते। अतः सम्प्रति ये जनाः संस्कृतेन सम्भाषणं कुर्वन्ति
संस्कृतं च पठन्ति तेषां वस्तुतः महद्भागधेयं वर्तते।
तदनन्तरं वर्गसंयोजकः श्रीमान् माणिक आस्तवमहोदयः उत्तराखण्डतःसमुपागतस्य केन्द्रीयसंस्कृत विश्वविद्यालयस्य मुक्तस्वाध्यायपीठस्य संस्कृताध्ययनकेन्द्र शिक्षकस्य आचार्यविशालप्रसादभट्टमहोदस्य परिचयं कारयित्वा अन्ते सामाजिकजनानां कृते ०६.०१.२०२५ दिनाज्र्तः आयोजयिष्यमाणस्य द्वादशदिनात्मकस्य संस्कृत सम्भाषण शिबिरस्य सूचनाः दत्तवान्। कार्यक्रमस्य सञ्चालनं गुरुकुलछात्रौ संस्कृतांङ्लभाषया पुतु धिता दिव् नातालिच् , इ गेदे फाजर कृष्णा पुत्रः च अकुरुताम्। अवसरेएस्मिन् संस्कृतभारत्याः कार्यकर्ता डॉ. एच् एस् सुदर्शनमहोदयः, श्रीसुधी सुब्रह्मण्य महोदयश्च द्वीपान्तर संस्कृत प्रतिष्ठानस्य कार्यकर्तारः, गुरुकुलच्छात्राः, बालीद्वीपस्थाश्च अनेके सामाजिकजनाः समुपस्थिताः अभवन्।

  • editor

    Related Posts

    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    देहरादून/वार्ताहर:। हरिद्वारनगरे देवसंस्कृति विश्वविद्यालयेन आयोजिते ध्वजारोहण समारोहे मुख्यमन्त्री पुष्करसिंह धामी, केन्द्रीय संस्कृति पर्यटन मन्त्री गजेन्द्रसिंह शेखावतः च भागं गतवन्तौ।वक्तारः गायत्री परिवारस्य शताब्दी समारोहं भारतीय संस्कृतेः,सेवायाः, आध्यात्मिक व्यवहारस्य च पुन र्जागरणस्य…

    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    आनन्द शुक्ल। २०२६ तमे वर्षे बीएमसी-निर्वाचने भाजपा-शिवसेना-सङ्घटनेन ऐतिहासिकं विजयं प्राप्तम्, एकैकंबृहत्तमं दलं रूपेण उद्भूतम्। एतेन विजयेन ठाकरे-परिवारस्य दशक त्रयपर्यन्तं कृतं वर्चस्वं समाप्तं भवति। बीएमसी-मध्ये २२७ वार्डेषु बहुमतस्य अंकः ११४ अस्ति,…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    • By editor
    • January 19, 2026
    • 94 views
    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    • By editor
    • January 19, 2026
    • 53 views
    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    • By editor
    • January 19, 2026
    • 43 views
    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    • By editor
    • January 19, 2026
    • 37 views
    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    वरिष्ठानां कनिष्ठानां च नेतृणाम् मध्ये सन्तुलनं स्थापयितुं नितिन नबिनस्य कृते महती आह्वानं भविष्यति

    • By editor
    • January 19, 2026
    • 47 views
    वरिष्ठानां कनिष्ठानां च नेतृणाम् मध्ये सन्तुलनं स्थापयितुं नितिन नबिनस्य कृते महती आह्वानं भविष्यति

    ए.आर.रहमानः हिन्दी-चलच्चित्रं धर्मस्य चश्मेन दृष्ट्वा गम्भीरं त्रुटिं कृतवान्

    • By editor
    • January 19, 2026
    • 69 views
    ए.आर.रहमानः हिन्दी-चलच्चित्रं धर्मस्य चश्मेन दृष्ट्वा गम्भीरं त्रुटिं कृतवान्

    You cannot copy content of this page