
नवदेहली। अहमदाबादनगरे लण्डन्नगरम् आगच्छन्ती एयर इण्डिया विमानस्य १७१ विमानस्य दुर्घटनायाः अनन्तरं दुर्घटनायाः अन्वेषणार्थं ब्रिटिशदलं भारतं प्रेषितम् इति ब्रिटिश प्रधानमन्त्री केयर स्टारमरः गुरुवासरे अवदत्। अस्मात् किञ्चित्काल पूर्वं नागरिक विमान दुर्घटनानां गम्भीर घटनानां च अन्वेषणं कुर्वती ब्रिटिश-एजेन्सी इत्यनेन उक्तं यत्, दुर्घटनायाः भारतीय नेतृत्वेन अन्वेषणे सहायतार्थं बहुविषयकं अन्वेषण दलं भारते नियोक्ष्यति इति वायुदुर्घटना अन्वेषण शाखा इत्यनेन उक्तं यत् भारते विमानदुर्घटना अन्वेषण ब्यूरो इत्यस्मै ‘औपचारिक रूपेण स्वसहायतां प्रदत्तवती’ इति। स्टारमरः अवदत् यत्, ‘अनुसन्धानं प्रचलति, वयं अन्वेषणदलं प्रेषितवन्तः; तत् नियोजितम् अस्ति।’ सः अवदत् यत्, ‘अस्मिन् विषये ब्रिटिश विदेश मन्त्री (डेविड् लैम्मी) कार्यं कुर्वन् अस्ति तथा च वयं यथाशीघ्रं नवीनतम सूचनाः दास्यामः। वयं भारतीयाधिकारिभिः सह तथ्यं ज्ञातुं कार्यं कुर्मः। अहं सर्वेषां प्रभावितानां जनानां परिवारं, मित्राणि च याचयितुम् इच्छामि यत् अधिक सूचनार्थं कृपया विदेश कार्यालयेन सह सम्पर्कं कुर्वन्तु।