

प्रयागराज:। वार्ताहर:। अन्तर्राष्ट्रीययोगदिवसस्य १० वर्षे ‘एकः पृथिवी, एकः स्वास्थ्यः’ इति विषयेण उत्तरमध्य रेलवे, मुख्यालये २१ जून दिनाङ्के ११ तमे अन्तर्राष्ट्रीय योगदिवसः आचरितः। कार्यक्रमस्य आरम्भः विशाखापत्तनमनगरे माननीयप्रधानमन्त्री श्री नरेन्द्र मोदी जी इत्यनेन सम्बोधितस्य मुख्यकार्यक्रमस्य सजीव प्रसारणेन सह अभवत्। उत्तर मध्य रेलवे, मुख्यालयस्य रेलगांव परिसर, सुबेदारगंजे स्थित बैडमिंटन भवने आयोजित:। स्थानीय कार्यक्रमस्य मुख्य अतिथि:, उत्तर मध्य रेलवे इत्यस्य महाप्रबन्धक: श्री उपेन्द्र चंद्र जोशी आसीत्। तस्य नेतृत्वे तथा उत्तर मध्य रेल महिला कल्याण संगठनस्य अध्यक्ष श्रीमती श्रीमती एस. चेतना जोशी नेतृत्वे रेलवे अधिकारिण: रेल कर्मचारिणश्च योगाभ्यासं अकुर्वन्।






