उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

वार्ताहर:-कुलदीपमैन्दोला। कर्नाटकराज्ये स्थितं मत्तूरु-संस्कृतग्रामम् यत्र ग्रामवासिनः प्रायः सर्वे संस्कृत भाषायाम् एव नित्यजीवनं यापयन्ति, तत्र उत्तराखण्ड शासनस्य एकः विशिष्टः शैक्षिकशिष्टमण्डलं शैक्षिक भ्रमणार्थं समागतम्। भ्रमणमेतत् माननीयस्य उत्तराखण्ड-संस्कृत-शिक्षा मन्त्रिण: श्रीधनसिंहरावत-महोदयस्य नेतृत्वे सम्पन्नः। एते शिष्टाः मत्तूरुग्रामस्य संस्कृत जीवनम्, शिक्षण प्रणालीम्, बालानां संस्कृत शिक्षायाः प्राविण्यम्, ग्रामस्य सामाजिक संरचनाम् च समीक्ष्य साक्षात् अनुभवम् अलभन्त। शिष्टमण्डले सम्मिलिताः सन्ति-उत्तराखण्डराज्यस्य सचिवः श्रीदीपककुमार महोदयः, उत्तराखण्ड-संस्कृत-विश्वविद्यालयस्य कुलपतिः प्रो. दिनेशचन्द्रशास्त्री, संस्कृत शिक्षानिदेशकः डा. आनन्द भारद्वाजः, उत्तराखण्ड-संस्कृत-अकादम्याः सचिवः डा. वाजश्रवा आर्यः, शोधाधिकारी हरीशगुरुरानी प्रकाशनाधिकारी श्रीकिशोरी लाल रतूडी च। सर्वे अपि संस्कृतग्रामे वर्तमाने संस्कृत जीवनस्य प्रत्यक्षदर्शिनः जाताः। ग्रामस्य विद्यालये छात्रैः सह संवादः अपि आयोज्यते स्म। छात्राः उत्तमं संस्कृतभाषाप्रयोगं दर्शितवन्तः। कुलपतिना प्रो. दिनेशचन्द्रशास्त्रिणा च कथितं यत्-‘संस्कृतं केवलं शिक्षायाः विषयः न, अपि तु जीवनधाराऽपि अस्ति। मत्तूरु अस्य जीवितोदाहरणम् अस्ति।’ शिष्टैः ग्रामस्य वरिष्ठैःतथाशिक्षकैःअपिविचारविनिमयःकृतः। परम्परागतं शिक्षणं, नवाचारयुक्तं पद्धतयः च गभीरतया समीकृताः। भ्रमणमेतत् उत्तराखण्डे संस्कृतशिक्षायाः विकासाय योजनानां निर्माणे प्रेरणास्रोतः भविष्यति इति विश्रासः।
शिक्षामन्त्रिणा डॉ.धनसिंहरावतवर्येण उक्तं यत् कर्नाटकराज्यस्य शिवमोग्गाजनपदे स्थितं ‘मत्तूर’ इत्यस्मिन् संस्कृतग्रामे एव उत्तराखण्ड राज्यस्य संस्कृत ग्रामाणां विकासायप्रेरणा प्राप्ता अस्ति। ‘मत्तूर’ ग्रामस्य अनुकरणं कृत्वा उत्तराखण्डेऽपि संस्कृतग्रामाणां स्थापनाय प्रयासाः क्रियन्ते।कर्नाटकराज्यस्य मत्तूरग्रामे प्रतिदिनं सामान्य जीवनं संस्कृत भाषायामेव सम्पद्यते। गृहकर्म, विद्यालय शिक्षा, व्यवहारः, चर्चाः, उत्सवाः, विवाहश्च अपि संस्कृतेनैव सम्पाद्यन्ते। एषः ग्रामः संस्कृतभाषायाः जीवतः दर्शनं ददाति। शिक्षामन्त्री डॉ. रावत महोदयः स्वगमन काले मत्तूरग्रामे निवासिनः साक्षात्कृतवान्। तेन दृष्टं यत् संस्कृतं केवलं भाषा नास्ति, अपि तु जीवन शैली अपि अस्ति। अनेन अनुभवेन प्रेरितः शिक्षामन्त्री उत्तराखण्डराज्ये अपि तथैव संस्कृतग्रामाणां विकासं कर्तुं संकल्पं कृतवान्। तेन उक्तं यत्-‘संस्कृतं भारतस्य गौरवस्य प्रतीकम् अस्ति। संस्कृतग्रामा: तु परम्परायाः, भाषायाः च रक्षणाय अत्यावश्यका:। एते ग्रामाः संस्कृतस्य च संस्कृतेः जीवत्वं प्रकाशयन्ति।’ राज्ये स्थापनया एतेषां ग्रामाणां जनाः संस्कृतभाषायाः महत्त्वं बोधिष्यन्ति, च विद्यालयेषु अपि संस्कृताध्ययनस्य वृत्तिः वर्धिष्यते।

  • editor

    Related Posts

    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    शम्भूनाथ त्रिपाठा/प्रयागराज:। रविवासरेमाघ मेलायाःबृहत्तमःउत्सवः’मौनीअमावस्या’इति विश्वासस्य एतादृशः अपूर्वः समुद्रः दृष्टः यत् विश्वस्य अत्यन्तं विकसित राष्ट्राणि आधुनिकमहानगराणि च अपि संगमस्यवालुकाभिः बौनारूपेण दृश्यन्तेस्म एकस्मिन् दिने एव ४ कोटिभ्यः अधिकाः भक्ताः संगमतटेषु डुबकीं कृतवन्तः।…

    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    नवदेहली। भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्। निर्वाचनप्रक्रियायां भागं ग्रहीतुं सर्वे भाजपा मुख्यमन्त्रिणः, राज्य-एककानां प्रमुखाः, अन्ये च प्रमुखाः नेतारः दलस्य मुख्यालये एकत्रिताः भविष्यन्ति। नबीनः दलस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    • By editor
    • January 19, 2026
    • 98 views
    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    • By editor
    • January 19, 2026
    • 56 views
    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    • By editor
    • January 19, 2026
    • 45 views
    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    • By editor
    • January 19, 2026
    • 39 views
    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    वरिष्ठानां कनिष्ठानां च नेतृणाम् मध्ये सन्तुलनं स्थापयितुं नितिन नबिनस्य कृते महती आह्वानं भविष्यति

    • By editor
    • January 19, 2026
    • 53 views
    वरिष्ठानां कनिष्ठानां च नेतृणाम् मध्ये सन्तुलनं स्थापयितुं नितिन नबिनस्य कृते महती आह्वानं भविष्यति

    ए.आर.रहमानः हिन्दी-चलच्चित्रं धर्मस्य चश्मेन दृष्ट्वा गम्भीरं त्रुटिं कृतवान्

    • By editor
    • January 19, 2026
    • 78 views
    ए.आर.रहमानः हिन्दी-चलच्चित्रं धर्मस्य चश्मेन दृष्ट्वा गम्भीरं त्रुटिं कृतवान्

    You cannot copy content of this page