उत्तराखण्डसचिवालये संस्कृतसंभाषणशिविरम् आयोजितम्

देहरादूनम्। संस्कृतभाषा भारतस्य प्राचीनतमा समृद्धा च भाषा। एषा न केवलं तावद् आध्यात्मिक-सांस्कृतिक-परम्परायाः संवाहिका, अपि तु वैज्ञानिक-प्रशासनिक-वैचारिक दृष्ट्या अपि परमोपयोगिनी। उत्तराखण्ड राज्यं सांस्कृतिकराज्यरूपेण प्रसिद्धम् , अत्र संस्कृत प्रचारस्य विशिष्टं महत्त्वम्। तेन तावद् उत्तराखण्ड सचिवालये संस्कृत संभाषण शिविरस्य सञ्चालनमिति अत्यन्तं समीचीनं दूरदर्शिपूर्णं च संलक्ष्यते। प्रशासनिक संवर्धनाय सचिवालये कार्यरताः अधिकारिणः-कर्मचारिणः यदि संस्कृत संभाषणं कुर्वते तर्हि प्रशासनिक कार्येषु अपि संस्कृत भाषायाः उपयोगिता वर्धेत। सांस्कृतिक परिचयस्य अनुरूपतायाम् उत्तराखण्ड राज्यं देवभूमिरिति प्रसिद्धम्। अत्र संस्कृतस्य सांस्कृतिकः सम्बन्धः अतीव प्रगाढः। सचिवालयः राज्यस्य सांस्कृतिक स्वरूपस्य प्रतिनिधित्वं कुरुतेऽतः तत्र संस्कृतप्रयोगः सचिवालयस्य गौरवं वर्धते। जनमानसे प्रेरणायाः कारणं यद्यदा सचिवालये एव संस्कृतभाषा प्रयुज्यते, तदा सामान्यजनानां चित्ते संस्कृतभाषां प्रति श्रद्धा, आकर्षणं च स्वतः उत्पद्येते। अस्य तावद्दूरगामिनः परिणामाः सम्भविष्यन्ति यत्प्रशासनिके पारम्परिक भाषा समावेशः। अयम् आरम्भो भारतीयभाषाणां प्रशासनिके तन्त्रे पुनर्स्थापनस्य दिशि एकः आधार स्तम्भःभवितुमर्हति।शैक्षिक संस्थानानां कृते प्रेरणास्पदं यच्छिबिरस्य आयोजनं सचिवालयस्तरे यदा भवति, तदा अन्येऽपि विभागाः शिक्षण संस्थाश्च अपि एतां संप्रेरणां लभेरन्। राष्ट्रियस्तरे आदर्शरूपेण एवं प्रकारेण आयोजितं शिबिरम् अन्येषां राज्येषां कृतेऽपि प्रेरणास्रोतः स्यात्। तस्मात् राष्ट्रस्तरे संस्कृतसंभाषण चेतना प्रसारितुं शक्येत।
राज्यस्य ब्राण्डिंग-संस्कृतप्रियमिति राज्यरूपेण उत्तराखण्डस्य वैश्विकं प्रतिष्ठानं सुदृढं, येन पर्यटनं, संस्कृतिः, शिक्षा इत्येतेषु क्षेत्रेषु नवीनानि द्वाराणि अनावृतानिभविष्यन्ति। उत्तराखण्ड सचिवालये संस्कृतसंभाषणशिबिरस्यसञ्चालनंकेवलं भाषिकाभ्यास रूपेण न द्रष्टव्यम्, अपितु एषः प्रयासः राज्यस्य सांस्कृतिक चेतनायाः प्रशासनिक नवोन्मेषस्य च प्रतीकरूपेण स्थातुम् अर्हति। एषः दृढः प्रयासः संस्कृत भाषायाः पुनरुज्जीवनाय चिरजीवितायै व्यवहारिक भाषारूपेण स्थापनाय च सहायको भविष्यति।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 10 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 7 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 8 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 5 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 8 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 8 views

    You cannot copy content of this page