उत्तराखण्डसचिवालये संस्कृतसंभाषणशिविरस्य आयोजनम्-संस्कृतशिक्षायाः नवमः आयामो लप्स्यते

देहरादूनम्। उत्तराखण्ड राज्यस्य संस्कृतशिक्षा विभागेन उत्तराखण्ड-संस्कृत-अकादम्या च संयुक्तरूपेण उत्तराखण्ड सचिवालये देहरादूने संस्कृत संभाषण शिविरस्य शुभारम्भः माननीय मुख्यमन्त्रिणः पुष्करसिंह धामी-महोदयस्य करकमलैः सम्पन्नः। शिविरारम्भस्य अवसरे उपस्थितेषु उत्तराखण्डराज्यस्य मन्त्रिमण्डलीयः डा. धनसिंहः रावतः, सतपालमहाराजः, गणेशदत्त जोशी, सुबोधउनियालः, मुख्यसचिवः आनन्दवर्धनः, सचिवः विनयशंकर पाण्डेय इत्यादयः अपि संस्कृतभाषायाः अभ्यासं कृतवन्तः। संस्कृतसंभाषण शिविरस्य शिक्षणस्य आरम्भः अद्य २९ मई २०२५ तः प्रारभ्य १२ जून २०२५ पर्यन्तं नियतः । शिबिरस्य समयः प्रतिदिनं प्रातः १:३० वादनतः अपराह्ण २:३० वादनपर्यन्तं निश्चितः अस्ति। संस्कृतशिक्षासचिवः दीपकगैरोलामहोदयः उद्घाटनं कुर्वन् अवदत् यत् -‘संस्कृतभाषा भारतीयभाषायाः, संस्कृतेः, सभ्यतायाः, संस्कारस्य, ज्ञानविज्ञानयोः च मूलाधारः अस्ति। एषा जनभाषा इति कर्तुं प्रयत्नः महत्वपूर्णः। एवंप्रकारैः शिविरैः समाजस्य विविधक्षेत्रेषु वर्तिनः जनाः अपि संस्कृतभाषायाः अध्ययनं कर्तुं शक्नुवन्ति।’ संस्कृत अकादम्याः सचिवः डा. वाजश्रवा आर्य-महोदयः उक्तवान्-‘संस्कृतस्य प्रचार प्रसारार्थं अकादम्या विविधकार्याणि क्रियमाणानि सन्ति। एतत् शिबिरंसंस्कृतभाषां जनभाषारूपेण स्थापनाय सशक्तः प्रयासः भविष्यति। शिबिरे शासनस्य बहूनां विभागानां अधिकारिणः, कर्मचारीणः च उत्साहेन सहभागित्वं कुर्वन्ति स्म। शिबिरस्य संचालनं प्रशिक्षणं च अकादम्याःशोधाधिकारिणा डॉ. हरीशचन्द्रगुरुरानीवर्येण कृतम्। प्रशिक्षकद्वयं डॉ. महेशचन्द्रमासीवालः, धीरजमैठाणी च सहयोगं कृतवन्तौ। अस्मिन् कार्यक्रमे शासनस्य संस्कृतशिक्षायाः अनु-सचिवः गीता शरदः, अनुभागाधिकारी तरुणधंजीवालः, सहायकनिर्देशकः डा. चण्डीप्रसाद घिल्डियालः, नोडलाधिकारी सच्चिदानन्दबौडाई च, सचिवालयस्य विविधविभागेषु कार्यरताः अधिकारिणः कर्मचरिणश्च, संस्कृत प्रेमिणश्च उपस्थिताः आसन्।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 3 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 4 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 3 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 3 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 3 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 4 views

    You cannot copy content of this page