
देहरादूननगरम्! उत्तराखण्डराज्यस्य संस्कृत शिक्षा विभागेन आयोजितं संस्कृत संभाषण शिबिरम् अद्य उत्तराखण्ड सचिवालये स्थिते देवेन्द्रशास्त्रि भवनेसम्पूर्तिं गतम्। एतत् संभाषणशिबिरम् उत्तराखण्डसंस्कृत-अकादम्या समायोजितम्। समारोपसमारम्भस्य अध्यक्षतां कुर्वन् उत्तराखण्डशासनस्य संस्कृतशिक्षासचिवः दीपककुमारगैरोला अवदत् यत् — ‘सम्माननीयेन मुख्यमन्त्रिणा संस्कृतविकासाय अनुमोदिताः नानाविधयोजनाः समग्रे प्रदेशे सक्रियतया प्रवर्तमानाः सन्ति। शीघ्रमेव त्रयोदशानां संस्कृतग्रामाणां शुभारम्भः भविष्यति। संस्कृत-अकादमी, संस्कृत-शिक्षानिदेशालयः, संस्कृत-शिक्षापरिषद्, संस्कृत-विश्वविद्यालयश्च स्वस्वस्तरेण संस्कृतप्रचाराय तत्पराः सन्ति। ते अवदन् — ‘संस्कृतं प्रदेशस्य द्वितीया राजभाषा अस्ति। अस्याः विकासाय सर्वे मिलित्वा कार्यं कर्तव्यम्।
उत्तराखण्डसंस्कृतविश्वविद्यालयस्य कुलपतिः प्रो दिनेशचन्द्रशास्त्री अवदत् — ‘भारतीयसंस्कृतेः पोषिका या शास्त्रसम्पद् अस्ति, सा सर्वथा संस्कृतभाषायाः एव प्रसूतिः। अतः अस्माकं व्यवहारे संस्कृतभाषाया: समावेशः अनिवार्यः अस्ति।’ संस्कृतशिक्षानिदेशालयस्य निदेशकः डॉ आनन्दभारद्वाजः अवदत् — ‘शिक्षानीतिः २०२० अनुसारं ग्रामस्तरात् प्रादेशिकस्तरपर्यन्तं भारतीयज्ञानपरम्परायाः संवर्धनाय विविधाः योजनाः सञ्चालिताः सन्ति। आधुनिकविज्ञानदृष्ट्या निष्पादितानि बहूनि शोधप्रबन्धानि पूर्वमेव अस्मिन् संस्कृतसाहित्ये उल्लिखितानि सन्ति, यानि अधुना प्रमाणरूपेण स्वीकृतानि भवन्ति। समारम्भे संस्कृतशिक्षायाः अनु-सचिवा गीताशरद्, अनुभागाधिकारिणी संयोजिका तरुणधंजीवालः, अकादम्याः वित्ताधिकारी सत्येन्द्रकुमार डबरालः च अतिथीनां स्वागतं कृतवन्तः। कार्यक्रमस्य सञ्चालनं शोधाधिकारी डॉ. हरीशगुरुरानी अकरोत्, धन्यवादज्ञापनं प्रकाशनाधिकारिणा किशोरीलालरतूडिना विहितम्। शिबिरप्रशिक्षकौ डॉ. महेशचन्द्रमासिवालः अथ च धीरजमैठाणी प्रशस्तिपत्रेण अंगवस्त्रेण च सम्मानितौ।
अस्मिन् शिबिरे संस्कृतशिक्षा, सूचना-प्रौद्योगिकी, कार्यक्रम-क्रियान्वयनं, कार्मिक-सतर्कता, सचिवालय-प्रशासनं, पुस्तकालयः, समाज-कल्याणः, वन, युवा-कल्याणः, नवाचारः, मुख्य-सचिवालयः, ग्राम्य-विकासः, बेसिक-शिक्षा, कृषिः, गृह-विभागः, चिकित्सा, मत्स्यः, नियोजन, सहकारिता, पशुपालनं, नियमावली-प्रकोष्ठः, गढ़वाल-मण्डल-विकास-निगमः, उच्चशिक्षा, वित्तविभागः, औद्योगिक-विकासः च इत्यादिषु विभागेषु कार्यरताः ३२ विभागानां ५८ अधिकारिणः-कर्मचारिणः प्रशिक्षणं प्राप्तवन्तः। समारम्भस्य आरम्भः वैदिक-मङ्गलाचरणेन जातः। संस्कृतभाषायां प्रेरकवक्तव्यैः सांस्कृतिक प्रस्तुतिभिश्च उपस्थितजनाः प्रेरिताः। अस्मिन्नेव अवसरे विद्वज्जनाः विभिन्नविभागेभ्यः समागताः अधिकारिणः -कर्मचारिणश्च समुपस्थिताः आसन्।