उत्तराखण्डसंस्कृताकादम्या समायोजिता वरिष्ठ वर्गीयखण्डस्तरीया संस्कृतस्पर्धा सम्पन्ना

देहरादून। कन्या गुरुकुले राजपुरमार्गे वरिष्ठवर्गीय संस्कृत स्पर्धा वैदिकमंगलाचरणेन आरब्धा, अनन्तरं विभिन्नविद्यालयेभ्यः आगताः प्रतिभागिनः श्लोकोच्चारणे समूहगाने समूहनृत्ये वादविवादे आशुभाषणे संस्कृत नाटके च उत्साहपूर्णां सहभागितां कृतवन्तः। स्पर्धासु श्लोकोच्चारणे प्रथमस्थाने द्रोणस्थली आर्ष कन्या गुरुकुलं, द्वितीयस्थाने श्री गुरु राम राय लक्ष्मण संस्कृत उत्तर मध्यमा विद्यालयः, तृतीयस्थाने श्री शिवनाथ संस्कृत महाविद्यालयः, संस्कृतनाटके प्रथमं सनातन धर्म इन्टर कॉलेज रेसकोर्स, द्वितीयं राजकीय इन्टर कॉलेज पटेलनगरं, समूहगाने प्रथमं द्रोणस्थली आर्ष कन्या गुरुकुलं, द्वितीयं श्री शिवनाथ संस्कृत महाविद्यालयः, तृतीयं राजकीय इन्टर कॉलेज पटेल नगरम्, समूहनृत्ये प्रथमं कन्या गुरुकुल महाविद्यालयः, द्वितीयं राजकीय बालिका इन्टर कॉलेज अजबपुर तृतीयं महादेवी कन्या पाठशाला, वादविवादे प्रथमं द्रोणस्थली आर्ष कन्या गुरुकुलम्, आशुभाषणे प्रथमं कन्या गुरुकुल महाविद्यालयं द्वितीयं द्रोणस्थली आर्ष कन्या गुरुकुलं च स्थानानि प्राप्नुवन कार्यक्रमस्य अध्यक्षः डॉ शैलेन्द्र प्रसाद डंगवालोऽवर्तत। तेन संस्कृतभाषायाः आध्यात्मिक वैज्ञानिक सांस्कृतिक च महत्त्वं निरूप्य विद्यार्थिनः संस्कृताध्ययने निरन्तरतां धारयितुं प्रेरिताः। समारोहस्य मुख्यातिथिः भागवतप्रवक्ता समाजसेवी गढवालभ्रातृमंडलीसदस्यश्च आचार्य मुकेशपन्तः संस्कृतं भारतीयज्ञानपरम्परायाः आधारशिलां वर्णयित्वा नियमिताभ्यासस्य महत्त्वं समाख्यातवान् विशिष्टातिथिः डॉ मनीषा भण्डारी प्रतिभागिनां उत्कृष्ट प्रदर्शनं प्रशंस्य संस्कृतभाषाया भारतीय संस्कृतिसंरक्षणे महत्वपूर्णं स्थानं प्रतिपादितवती। समारोहस्य प्रास्ताविकं कथनं खण्डसंयोजकेन आचार्येण नवीनभट्टेन उक्तम्। तेन प्रतियोगितायाः रूपरेखाउद्देश्यानि अकादम्या संस्कृतोन्नयनार्थं क्रियमाण प्रयत्नाश्च सूचिताः। धन्यवादं दुर्गेशभट्टः अकरोत्। सम्पूर्णकार्यक्रमस्य सञ्चालनं धीरजमैठाणिना विहितम्। विभिन्नविद्यालयेभ्यः आगतेषु विद्वत्सु निर्णेतृषु च डॉ आनन्द मोहनजोशी, डॉ आरती गौडः डॉ दीपक नवानी, डॉ सीमा बिजल्वाणः , एकता, डॉ दीपशिखा, मीरा, सुनीता पवारः, श्रीमती अलका, सरिताविष्टः मुकेशखण्डूडी इत्यादीनां योगदानम् महत् अवर्तत। वैदिक मन्त्रोच्चारणैः सांस्कृतिकप्रस्तुतिभिः अनुशासन युक्त सहभागितया च वरिष्ठवर्गीय संस्कृतप्रतियोगिता सफलतया सम्पन्ना इति सर्वत्र प्रशंस्यते। प्रतियोगिभिः सह तेषां शिक्षकैः छात्रैः अभिभावकैः व्यवस्थापकैश्च कार्यक्रमे आधिक्येन उपस्थितिःनिर्व्यूढा।

  • editor

    Related Posts

    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    देहरादून/वार्ताहर:। हरिद्वारनगरे देवसंस्कृति विश्वविद्यालयेन आयोजिते ध्वजारोहण समारोहे मुख्यमन्त्री पुष्करसिंह धामी, केन्द्रीय संस्कृति पर्यटन मन्त्री गजेन्द्रसिंह शेखावतः च भागं गतवन्तौ।वक्तारः गायत्री परिवारस्य शताब्दी समारोहं भारतीय संस्कृतेः,सेवायाः, आध्यात्मिक व्यवहारस्य च पुन र्जागरणस्य…

    मौनस्नानसमये संस्कृते: अद्भुतध्वनिः अनुभूयते स्म, सनातनमेला सह अनुशासनस्य अद्वितीयं पाठं दत्तवान्

    शम्भूनाथ त्रिपाठी/प्रयागराज:। मौनी अमावस्यायां सनातन भक्तानाम् शोभायात्रा प्रतिघण्टां अभिलेखान् भङ्गयति स्म। शनिवासर-रविवासरात् प्रयागराजः गङ्गा-यमुना-अदृश्य-सरस्वती-सङ्गमे मौनेन स्नान-जनैः परिपूर्णः आसीत्। एतेषु समीपस्थ ग्रामेभ्यः जनाः शिरसि पुटं वहन्तः आसन्, विशेषरेलयानैः, बसयानैः च महत्त्वपूर्णसङ्ख्यायाः…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    • By editor
    • January 19, 2026
    • 95 views
    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    • By editor
    • January 19, 2026
    • 54 views
    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    • By editor
    • January 19, 2026
    • 44 views
    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    • By editor
    • January 19, 2026
    • 38 views
    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    वरिष्ठानां कनिष्ठानां च नेतृणाम् मध्ये सन्तुलनं स्थापयितुं नितिन नबिनस्य कृते महती आह्वानं भविष्यति

    • By editor
    • January 19, 2026
    • 49 views
    वरिष्ठानां कनिष्ठानां च नेतृणाम् मध्ये सन्तुलनं स्थापयितुं नितिन नबिनस्य कृते महती आह्वानं भविष्यति

    ए.आर.रहमानः हिन्दी-चलच्चित्रं धर्मस्य चश्मेन दृष्ट्वा गम्भीरं त्रुटिं कृतवान्

    • By editor
    • January 19, 2026
    • 72 views
    ए.आर.रहमानः हिन्दी-चलच्चित्रं धर्मस्य चश्मेन दृष्ट्वा गम्भीरं त्रुटिं कृतवान्

    You cannot copy content of this page