उत्तराखण्डविद्वत्सभया ज्योतिषीयविद्वत्संगोष्ठी सनातन परम्परा संरक्षणाय शास्त्रीय विमर्शश्च सम्पादितौ

देहरादूनम्। उत्तराखण्डप्रदेशस्य सनातनपरम्पराणां, व्रतपर्वणाम् अथ च ज्यौतिषीय निर्णयानां शास्त्रीयव्यावहारिकदृष्ट्या एकरूपी करणम् आधृत्य संवत् २०८३ (२०२६–२७) सन्दर्भे, एकस्य ज्योतिषीय विचारविमर्श विद्वत्गोष्ठ्याः सफलतया आयोजनं विहितम्। एषा गरिमामयी गोष्ठी उत्तराखण्डविद्वत्सभायाः (पंजीकृता) तत्वावधाने, सभाध्यक्षेण सम्मेलनस्य सूत्रधारेण आचार्येण हर्षपति गोदियालेन आयोजिता। समापनवक्तव्ये सः अवदत्— ‘एषा गोष्ठी केवलं विचारविमर्शः न, अपि तु सनातन संस्कृतेः संरक्षणदिशि ऐतिहासिकं पदम् अस्ति।’ एवं प्रकारेण सभाया एषा विद्वद्गोष्ठी सनातन संस्कृतेः, शास्त्रीय ज्योतिषस्य सामाजिक समरसतायाः च कृते प्रेरणादायिनी भूयात्। कार्यक्रमस्य अध्यक्षतां डॉ० रमेशचन्द्र पाण्डेयोऽकरोत्। स्वस्य अध्यक्षीयोद्बोधने सः अवदत् यत् ‘सनातन परम्पराणां शुद्धता केवलम् आस्थाविषयः न, अपि तु शास्त्रीया नुशासनस्य तथा काल गणनायाः वैज्ञानिकतायाः अपि विषयः अस्ति। पञ्चाङ्गेषु एकरूपता कालस्य आवश्यकता अस्ति, यस्य कृते प्रतिबद्धनेतृत्वस्य अपेक्षा वर्तते।’ कार्यक्रमस्य मुख्या तिथिः आचार्यो राधाकृष्णथपलियालो नवसंवत्सरस्य, मलमासस्य पर्वनिर्णयस्य च विषये विचारान् प्रस्तुत्य अवदत्‘पर्वनिर्णयः केवलं तिथिदर्शन मात्रेण न कर्तव्यः, अपि तु देशकाल व्यवहार परम्पराणां समन्वयेन। उत्तराखण्डस्य क्षेत्रीयमान्यतानां शास्त्रीयाधारः स्पष्टः कर्तव्यः।’ विशिष्टातिथिः आचार्यो राजेश बेंजवालो ज्योतिषीय भ्रान्तीनां विषये स्पष्टम् अवदत् यद्राहु कालः, भद्राकालः, अस्तकालः इत्यादिषु विषयेषु अनावश्यक भयस्य वातावरणं निर्मीयते। शास्त्राणां सूक्ष्माध्ययनेन ज्ञायते यत् अनेके निषेधाः सार्वकालिकाः न, अपि तु सानुबंधाः सन्ति।’ तेन शास्त्र मन्थनात् शास्त्रार्थाच्चैव ससन्दर्भतया सर्वे तथ्याः निर्णेतव्याः इति अपि निर्दिष्टम्। अतिविशिष्टातिथिः डॉ० चण्डीप्रसाद घिल्डियालः संस्कृतज्योतिष शिक्षायाः सन्दर्भे अवदत् यच्छास्त्राणि तदा एव जीवितानि तिष्ठन्ति, यदा तानि समाजस्य व्यावहारिकसमस्यानां समाधानं कुर्वन्ति। एतादृशाः विद्वद्गोष्ठ्यः ज्ञानपरम्परां अग्रे नयन्ति।’ गोष्ठ्याम् उपस्थिताः अवर्तन्त आचार्यो जगदम्बा प्रसाद सती, डॉ० शम्भू प्रसाद पाण्डेयः, नीतिशबोडाई इतिप्रभृतयो बहवः ज्योतिषाचार्याः स्वस्वविचारान् प्रस्तुतवन्तः। तैः नवसंवत्सरस्य घटस्थापनतिथिः, गङ्गादशहरानिर्णयः, उत्तराखण्डे राहुकाल व्यवस्था, होलाष्टककालः, भद्रायां रक्षाबन्धनहोलिकादहन निर्णयः, महालय पक्षे त्रयोदशीमघान क्षत्रगतस्तर्पणनिषेधः, दीपावल्यां लक्ष्मीपूजनकालः, पञ्चदिवसीय दीपावलीक्रमः, २०२७ तमे वर्षे होलीपर्वतिथिः, शुक्रगुर्वोः अस्तकाले विवाहविषयः, नवीनवर्षफलनिर्माणे धुवाज्र्सारणीप्रयोगः इत्यादिषु जटिल विषयेषु शास्त्रीय प्रमाणैः सह मतमभिव्यक्तम्। २०२७ तमस्य वर्षस्य होलीविषये ते अवदन् ‘छरौली कृष्णपक्षे एव आचरितव्या इति शास्त्रसम्मतम्।

  • editor

    Related Posts

    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    देहरादून/वार्ताहर:। हरिद्वारनगरे देवसंस्कृति विश्वविद्यालयेन आयोजिते ध्वजारोहण समारोहे मुख्यमन्त्री पुष्करसिंह धामी, केन्द्रीय संस्कृति पर्यटन मन्त्री गजेन्द्रसिंह शेखावतः च भागं गतवन्तौ।वक्तारः गायत्री परिवारस्य शताब्दी समारोहं भारतीय संस्कृतेः,सेवायाः, आध्यात्मिक व्यवहारस्य च पुन र्जागरणस्य…

    मौनस्नानसमये संस्कृते: अद्भुतध्वनिः अनुभूयते स्म, सनातनमेला सह अनुशासनस्य अद्वितीयं पाठं दत्तवान्

    शम्भूनाथ त्रिपाठी/प्रयागराज:। मौनी अमावस्यायां सनातन भक्तानाम् शोभायात्रा प्रतिघण्टां अभिलेखान् भङ्गयति स्म। शनिवासर-रविवासरात् प्रयागराजः गङ्गा-यमुना-अदृश्य-सरस्वती-सङ्गमे मौनेन स्नान-जनैः परिपूर्णः आसीत्। एतेषु समीपस्थ ग्रामेभ्यः जनाः शिरसि पुटं वहन्तः आसन्, विशेषरेलयानैः, बसयानैः च महत्त्वपूर्णसङ्ख्यायाः…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    • By editor
    • January 19, 2026
    • 95 views
    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    • By editor
    • January 19, 2026
    • 54 views
    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    • By editor
    • January 19, 2026
    • 44 views
    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    • By editor
    • January 19, 2026
    • 38 views
    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    वरिष्ठानां कनिष्ठानां च नेतृणाम् मध्ये सन्तुलनं स्थापयितुं नितिन नबिनस्य कृते महती आह्वानं भविष्यति

    • By editor
    • January 19, 2026
    • 49 views
    वरिष्ठानां कनिष्ठानां च नेतृणाम् मध्ये सन्तुलनं स्थापयितुं नितिन नबिनस्य कृते महती आह्वानं भविष्यति

    ए.आर.रहमानः हिन्दी-चलच्चित्रं धर्मस्य चश्मेन दृष्ट्वा गम्भीरं त्रुटिं कृतवान्

    • By editor
    • January 19, 2026
    • 71 views
    ए.आर.रहमानः हिन्दी-चलच्चित्रं धर्मस्य चश्मेन दृष्ट्वा गम्भीरं त्रुटिं कृतवान्

    You cannot copy content of this page