देहरादूनम्। उत्तराखण्डप्रदेशस्य सनातनपरम्पराणां, व्रतपर्वणाम् अथ च ज्यौतिषीय निर्णयानां शास्त्रीयव्यावहारिकदृष्ट्या एकरूपी करणम् आधृत्य संवत् २०८३ (२०२६–२७) सन्दर्भे, एकस्य ज्योतिषीय विचारविमर्श विद्वत्गोष्ठ्याः सफलतया आयोजनं विहितम्। एषा गरिमामयी गोष्ठी उत्तराखण्डविद्वत्सभायाः (पंजीकृता) तत्वावधाने, सभाध्यक्षेण सम्मेलनस्य सूत्रधारेण आचार्येण हर्षपति गोदियालेन आयोजिता। समापनवक्तव्ये सः अवदत्— ‘एषा गोष्ठी केवलं विचारविमर्शः न, अपि तु सनातन संस्कृतेः संरक्षणदिशि ऐतिहासिकं पदम् अस्ति।’ एवं प्रकारेण सभाया एषा विद्वद्गोष्ठी सनातन संस्कृतेः, शास्त्रीय ज्योतिषस्य सामाजिक समरसतायाः च कृते प्रेरणादायिनी भूयात्। कार्यक्रमस्य अध्यक्षतां डॉ० रमेशचन्द्र पाण्डेयोऽकरोत्। स्वस्य अध्यक्षीयोद्बोधने सः अवदत् यत् ‘सनातन परम्पराणां शुद्धता केवलम् आस्थाविषयः न, अपि तु शास्त्रीया नुशासनस्य तथा काल गणनायाः वैज्ञानिकतायाः अपि विषयः अस्ति। पञ्चाङ्गेषु एकरूपता कालस्य आवश्यकता अस्ति, यस्य कृते प्रतिबद्धनेतृत्वस्य अपेक्षा वर्तते।’ कार्यक्रमस्य मुख्या तिथिः आचार्यो राधाकृष्णथपलियालो नवसंवत्सरस्य, मलमासस्य पर्वनिर्णयस्य च विषये विचारान् प्रस्तुत्य अवदत्‘पर्वनिर्णयः केवलं तिथिदर्शन मात्रेण न कर्तव्यः, अपि तु देशकाल व्यवहार परम्पराणां समन्वयेन। उत्तराखण्डस्य क्षेत्रीयमान्यतानां शास्त्रीयाधारः स्पष्टः कर्तव्यः।’ विशिष्टातिथिः आचार्यो राजेश बेंजवालो ज्योतिषीय भ्रान्तीनां विषये स्पष्टम् अवदत् यद्राहु कालः, भद्राकालः, अस्तकालः इत्यादिषु विषयेषु अनावश्यक भयस्य वातावरणं निर्मीयते। शास्त्राणां सूक्ष्माध्ययनेन ज्ञायते यत् अनेके निषेधाः सार्वकालिकाः न, अपि तु सानुबंधाः सन्ति।’ तेन शास्त्र मन्थनात् शास्त्रार्थाच्चैव ससन्दर्भतया सर्वे तथ्याः निर्णेतव्याः इति अपि निर्दिष्टम्। अतिविशिष्टातिथिः डॉ० चण्डीप्रसाद घिल्डियालः संस्कृतज्योतिष शिक्षायाः सन्दर्भे अवदत् यच्छास्त्राणि तदा एव जीवितानि तिष्ठन्ति, यदा तानि समाजस्य व्यावहारिकसमस्यानां समाधानं कुर्वन्ति। एतादृशाः विद्वद्गोष्ठ्यः ज्ञानपरम्परां अग्रे नयन्ति।’ गोष्ठ्याम् उपस्थिताः अवर्तन्त आचार्यो जगदम्बा प्रसाद सती, डॉ० शम्भू प्रसाद पाण्डेयः, नीतिशबोडाई इतिप्रभृतयो बहवः ज्योतिषाचार्याः स्वस्वविचारान् प्रस्तुतवन्तः। तैः नवसंवत्सरस्य घटस्थापनतिथिः, गङ्गादशहरानिर्णयः, उत्तराखण्डे राहुकाल व्यवस्था, होलाष्टककालः, भद्रायां रक्षाबन्धनहोलिकादहन निर्णयः, महालय पक्षे त्रयोदशीमघान क्षत्रगतस्तर्पणनिषेधः, दीपावल्यां लक्ष्मीपूजनकालः, पञ्चदिवसीय दीपावलीक्रमः, २०२७ तमे वर्षे होलीपर्वतिथिः, शुक्रगुर्वोः अस्तकाले विवाहविषयः, नवीनवर्षफलनिर्माणे धुवाज्र्सारणीप्रयोगः इत्यादिषु जटिल विषयेषु शास्त्रीय प्रमाणैः सह मतमभिव्यक्तम्। २०२७ तमस्य वर्षस्य होलीविषये ते अवदन् ‘छरौली कृष्णपक्षे एव आचरितव्या इति शास्त्रसम्मतम्।







