उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

(वार्ताहर:- प्रवेशकुमारशुक्ल:, लखनऊ ) उत्तरप्रदेश संस्कृत संस्थानेन निदेशक विनय श्रीवास्तवस्य मार्गदर्शनेन संचालितायाः ऑनलाइन प्रशिक्षण पाठ्यक्रम निर्माण योजनायाः अन्तर्गतं सरलसंस्कृत भाषाशिक्षण कक्षयोः समापन सत्रस्य आरम्भः वैदिक मंगलाचरणेन जातः। वैदिक मङ्लाचरणम् आशिष:, सरस्वतीवन्दनां रागिनी च अकरोत्। संस्थानगीतिका सुजाता महोदया कृतवती। सत्रस्य संचालनं प्रशिक्षिका आस्थाशुक्ला अकरोत्। स्वागतगीतं वैभवेन प्रस्तुतम् अनन्तरं संस्कृतगीतं अमित:, वैष्णवी, आर्ना, कश्मीरा, शिप्रा आद्विकश्च प्रस्तुतवन्त:। चन्द्रशेखर महोदयः,पद्मिनी, संजीवकुमारश्च कक्षायाः अनुभवम् उक्तवन्त:। गीतापाठं प्रज्ञांशीउपाध्याय: कृतवती एवञ्च रुद्राष्टकं गंगोत्री महोदया गीतवती। तस्मात् परं ये छात्रा: स्वप्रस्तुतिं दत्तवन्त: तेषां एवञ्च उत्तरप्रदेश संस्कृत संस्थानस्य निदेशकः विनय श्रीवास्तवः, प्रशासनिक पदाधिकारी जगदानन्दझा, दिनेशमिश्रः, योजनाप्रमुखः भगवान सिंह महोदय:, प्रशिक्षणप्रमुखः सुधिष्ठामिश्र महोदय:, समन्वयका: धीरजमैठाणी महोदय:, दिव्यरंजनमहोदय: राधाशर्मा महोदया इत्येतेषां महोदयानां कृते धन्यवाद ज्ञापनं प्रशिक्षिका दीपिकामिश्रा अकरोत्। कार्यक्रमे द्विचत्वारिंशत् छात्रा उपस्थिताः आसन्। अन्ते शान्तिमन्त्रं करीनाआचार्या कृतवती ।एवं प्रकारेण शान्तिमन्त्रेण सूचनयाश्च सह कार्यक्रमस्य सफलतापूर्वकं समाप्तिः अभवत्।

  • editor

    Related Posts

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    अभय शुक्ल/लखनऊ। मुख्यमन्त्रीयोगी आदित्य नाथः राज्यस्य सर्वतोमुखी विकासाय आरब्धस्य मण्डल-वार-जनप्रतिनिधि संवाद-श्रृङ्खलायाः अन्तर्गतं अद्य स्व-आधिकारिक-निवास स्थाने आहूतायां उच्चस्तरीय सभायां झाँसी-चित्रकूट धाम मण्डलस्य जनप्रतिनिधिभिः सह विकासकार्यस्य प्रगतेः समीक्षां कृतवान्। अस्मिन् अवसरे सः…

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    नवदेहली। मुख्यमन्त्री योगी आदित्यनाथः अद्य स्वस्य आधिकारिक निवासस्थाने कानपुर मण्डलस्य जनप्रतिनिधिभिः सह विशेषसंवादसभां कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री उक्तवान् यत् लोकनिर्माण विभागेन सम्बन्धित जनप्रतिनिधिभिः सह परामर्शं कृत्वा प्रस्तावितानां कार्याणां प्राथमिकता निर्णयेन…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    • By editor
    • July 28, 2025
    • 17 views
    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    • By editor
    • July 28, 2025
    • 10 views
    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    • By editor
    • July 28, 2025
    • 10 views
    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    • By editor
    • July 28, 2025
    • 9 views
    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    • By editor
    • July 28, 2025
    • 9 views
    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    • By editor
    • July 28, 2025
    • 8 views
    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    You cannot copy content of this page