उत्तरप्रदेशसंस्कृतसंस्थानेन सञ्चालितायाः मई मासस्य कक्षाया: समापनसत्रं संस्कृतमयं कृतम्

वार्ताहर:-सचिन शर्मा, मोदी नगरम्। उत्तरप्रदेश संस्कृत संस्थानं भाषाविभाग: उत्तरप्रदेश शासनेन आयोजिता विंशतिदिवसीया संस्कृत भाषाशिक्षण कार्य शालायाम् उत्तरप्रदेशसंस्कृतसंस्थानस्य यशस्वी निदेशक: विनय: श्रीवास्तव: इत्यस्य कुशलनेतृत्वे निर्देशने च कार्यशालायाम् अध्ययनरतानां छात्राणां बौद्धिक स्तरं वर्धनाय वर्गस्य अस्य मासस्य कक्षाया: समापन सत्रस्य आयोजनं शनिवासरे सायंकाले सप्तवादनतः अष्टवादनपर्यन्तम् ऑनलाइनगूगलमीट माध्यमेन अभवत्। कार्यक्रमस्य आरम्भे जनकराजेण मंगलाचरणं कृतम्, सरस्वतीवन्दनाम् अनुश्री कृतवती, संस्थान गीतिकां छात्रा समता कृतवती। छात्रेण आकाश चौधरी महोदयेन कक्षायाः स्वस्य अनुभव: संस्कृतेन उक्त:, छात्रेण शिवममहोदयेन पञ्चाङ्ग कथनं कृतम्, संस्कृत-सुभाषित-श्लोकानाम् उच्चारणं गायनं, तेषां संस्कृतेन अर्थः च इति सर्वमपि छात्रा: सुषमा शिंपी, शामिनी, राजप्रभा च कृतवत्य:। समापनसत्रे उपस्थिताः वर्तन्ते मुख्यातिथय: श्रीमन्त: धनञ्जय मिश्रवर्या: (संस्कृत भाषा विशेषज्ञा:, भारतीय भाषा समिति:) इत्यादिनाम् अतिथिनां परिचय: प्रशिक्षकेण पज्र्जशर्मा वर्येण कृतम्। स्वागतगीतंछात्रया सोमवती महोदयया कृतम्। प्रशिक्षिकया वैष्णवी शर्मा वर्यया कार्यक्रमस्य मञ्चसञ्चालनं कुशलतया सम्पादितम्। कार्यक्रमे मुख्यवक्तृरूपेण माननीय: धनञ्जयमिश्र वर्येण स्वस्य उद्बोधने सर्वान् भारतीयान् स्वस्य मूलम् अवगन्तुं संस्कृतभाषया आत्मविकासाय च संस्कृतभाषा आवश्यकी न अपितु अनिवार्या एव इति तेन उक्तम् । सन्दर्भेएस्मिन् अनेकानि दृष्टान्ततथ्यानि प्रस्तुत्य अधिकाधिकं संस्कृत संभाषणं कर्तुम् आग्रहं कृत्वा अधिकाधिकं पंजीकरणं कर्तुं कारयितुं च अपि सर्वान् छात्रान् प्रेरितवन्तः। कार्यशालायाः प्रास्ताविकं प्रशिक्षकेण पज्र्जवर्येण प्रस्तुतम्। कार्यक्रमस्य अन्ते शान्तिमन्त्र: विजयलक्ष्मी वर्यया कृत:। धन्यवादज्ञापनं प्रशिक्षकेण शिवप्रताप मिश्रेण कृतम्। कार्यक्रमेएस्मिन् प्रायशः पञ्चाशताधिका: प्रशिक्षव:,संस्थानस्यपदाधिकारीगणेषु प्रशासनिकाधिकारी जगदानन्द झा, योजना प्रभारी भगवान सिंहचौहान: प्रशिक्षणप्रमुख: सुधिष्ठकुमारमिश्र: , प्रशिक्षणसमन्वयक: धीरजमैठाणी, राधाशर्मा, दिव्यरञ्जन:, प्रशिक्षका: सचिन शर्मा, पज्र्जशर्मा, वैष्णवीशर्मा , शिवप्रतापमिश्र:, विनय तिवारी च इत्यादयः संस्कृत प्रेमिण: संस्कृतसमुपासका: च उपस्थिता: आसन्।

  • editor

    Related Posts

    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    देहरादून/वार्ताहर:। हरिद्वारनगरे देवसंस्कृति विश्वविद्यालयेन आयोजिते ध्वजारोहण समारोहे मुख्यमन्त्री पुष्करसिंह धामी, केन्द्रीय संस्कृति पर्यटन मन्त्री गजेन्द्रसिंह शेखावतः च भागं गतवन्तौ।वक्तारः गायत्री परिवारस्य शताब्दी समारोहं भारतीय संस्कृतेः,सेवायाः, आध्यात्मिक व्यवहारस्य च पुन र्जागरणस्य…

    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    आनन्द शुक्ल। २०२६ तमे वर्षे बीएमसी-निर्वाचने भाजपा-शिवसेना-सङ्घटनेन ऐतिहासिकं विजयं प्राप्तम्, एकैकंबृहत्तमं दलं रूपेण उद्भूतम्। एतेन विजयेन ठाकरे-परिवारस्य दशक त्रयपर्यन्तं कृतं वर्चस्वं समाप्तं भवति। बीएमसी-मध्ये २२७ वार्डेषु बहुमतस्य अंकः ११४ अस्ति,…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    • By editor
    • January 19, 2026
    • 95 views
    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    • By editor
    • January 19, 2026
    • 54 views
    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    • By editor
    • January 19, 2026
    • 44 views
    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    • By editor
    • January 19, 2026
    • 38 views
    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    वरिष्ठानां कनिष्ठानां च नेतृणाम् मध्ये सन्तुलनं स्थापयितुं नितिन नबिनस्य कृते महती आह्वानं भविष्यति

    • By editor
    • January 19, 2026
    • 49 views
    वरिष्ठानां कनिष्ठानां च नेतृणाम् मध्ये सन्तुलनं स्थापयितुं नितिन नबिनस्य कृते महती आह्वानं भविष्यति

    ए.आर.रहमानः हिन्दी-चलच्चित्रं धर्मस्य चश्मेन दृष्ट्वा गम्भीरं त्रुटिं कृतवान्

    • By editor
    • January 19, 2026
    • 71 views
    ए.आर.रहमानः हिन्दी-चलच्चित्रं धर्मस्य चश्मेन दृष्ट्वा गम्भीरं त्रुटिं कृतवान्

    You cannot copy content of this page