उत्तरप्रदेशसंस्कृतसंस्थानेन सञ्चालितायाः मई मासस्य कक्षाया: समापनसत्रं संस्कृतमयं कृतम्

वार्ताहर:-सचिन शर्मा, मोदी नगरम्। उत्तरप्रदेश संस्कृत संस्थानं भाषाविभाग: उत्तरप्रदेश शासनेन आयोजिता विंशतिदिवसीया संस्कृत भाषाशिक्षण कार्य शालायाम् उत्तरप्रदेशसंस्कृतसंस्थानस्य यशस्वी निदेशक: विनय: श्रीवास्तव: इत्यस्य कुशलनेतृत्वे निर्देशने च कार्यशालायाम् अध्ययनरतानां छात्राणां बौद्धिक स्तरं वर्धनाय वर्गस्य अस्य मासस्य कक्षाया: समापन सत्रस्य आयोजनं शनिवासरे सायंकाले सप्तवादनतः अष्टवादनपर्यन्तम् ऑनलाइनगूगलमीट माध्यमेन अभवत्। कार्यक्रमस्य आरम्भे जनकराजेण मंगलाचरणं कृतम्, सरस्वतीवन्दनाम् अनुश्री कृतवती, संस्थान गीतिकां छात्रा समता कृतवती। छात्रेण आकाश चौधरी महोदयेन कक्षायाः स्वस्य अनुभव: संस्कृतेन उक्त:, छात्रेण शिवममहोदयेन पञ्चाङ्ग कथनं कृतम्, संस्कृत-सुभाषित-श्लोकानाम् उच्चारणं गायनं, तेषां संस्कृतेन अर्थः च इति सर्वमपि छात्रा: सुषमा शिंपी, शामिनी, राजप्रभा च कृतवत्य:। समापनसत्रे उपस्थिताः वर्तन्ते मुख्यातिथय: श्रीमन्त: धनञ्जय मिश्रवर्या: (संस्कृत भाषा विशेषज्ञा:, भारतीय भाषा समिति:) इत्यादिनाम् अतिथिनां परिचय: प्रशिक्षकेण पज्र्जशर्मा वर्येण कृतम्। स्वागतगीतंछात्रया सोमवती महोदयया कृतम्। प्रशिक्षिकया वैष्णवी शर्मा वर्यया कार्यक्रमस्य मञ्चसञ्चालनं कुशलतया सम्पादितम्। कार्यक्रमे मुख्यवक्तृरूपेण माननीय: धनञ्जयमिश्र वर्येण स्वस्य उद्बोधने सर्वान् भारतीयान् स्वस्य मूलम् अवगन्तुं संस्कृतभाषया आत्मविकासाय च संस्कृतभाषा आवश्यकी न अपितु अनिवार्या एव इति तेन उक्तम् । सन्दर्भेएस्मिन् अनेकानि दृष्टान्ततथ्यानि प्रस्तुत्य अधिकाधिकं संस्कृत संभाषणं कर्तुम् आग्रहं कृत्वा अधिकाधिकं पंजीकरणं कर्तुं कारयितुं च अपि सर्वान् छात्रान् प्रेरितवन्तः। कार्यशालायाः प्रास्ताविकं प्रशिक्षकेण पज्र्जवर्येण प्रस्तुतम्। कार्यक्रमस्य अन्ते शान्तिमन्त्र: विजयलक्ष्मी वर्यया कृत:। धन्यवादज्ञापनं प्रशिक्षकेण शिवप्रताप मिश्रेण कृतम्। कार्यक्रमेएस्मिन् प्रायशः पञ्चाशताधिका: प्रशिक्षव:,संस्थानस्यपदाधिकारीगणेषु प्रशासनिकाधिकारी जगदानन्द झा, योजना प्रभारी भगवान सिंहचौहान: प्रशिक्षणप्रमुख: सुधिष्ठकुमारमिश्र: , प्रशिक्षणसमन्वयक: धीरजमैठाणी, राधाशर्मा, दिव्यरञ्जन:, प्रशिक्षका: सचिन शर्मा, पज्र्जशर्मा, वैष्णवीशर्मा , शिवप्रतापमिश्र:, विनय तिवारी च इत्यादयः संस्कृत प्रेमिण: संस्कृतसमुपासका: च उपस्थिता: आसन्।

  • editor

    Related Posts

    भागवतः अवदत्-भारतस्य स्वभावः द्वन्द्वः न अपितु भ्रातृत्वं-भारतस्य राष्ट्रवादस्य अवधारणा पाश्चात्यचिन्तनात् सर्वथा भिन्ना अस्ति, ते राष्ट्रत्वं न अवगच्छन्ति

    नवदेहली। राष्ट्रीयस्वयंसेवकसंघस्य प्रमुखः मोहन भागवतः शनिवासरे अवदत् यत्, ‘भारतस्य स्वभावे संघर्षेषु प्रवृत्तिः नास्ति। देशस्य परम्परायां सर्वदा भ्रातृत्वस्य, सामूहिकसौहार्दस्य च उपरि बलं दत्तम् वर्तते। सः अवदत् यत् भारतस्य राष्ट्रवादस्य अवधारणा पाश्चात्यव्याख्याभ्यः…

    रायपुरे मोदी-अध्यक्षतायां डीजीपी-आईजीपी सम्मेलनम्-आन्तरिक सुरक्षा नीति निर्माण विषये चर्चा

    लखनऊ। प्रधानमन्त्री नरेन्द्र मोदी इत्यनेन शनिवासरे रायपुरनगरे ६० तमे अखिलभारतीय महानिदेशक/ पुलिस महानिरीक्षक सम्मेलनस्य अध्यक्षता कृता। त्रिदिवसीय सम्मेलनं भारतीय प्रबन्धन संस्थायां रायपुरे सम्पन्नम्। २८ नवम्बर् दिनाङ्के आरब्धस्य सम्मेलनस्य कृते शुक्रवासरे…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    भागवतः अवदत्-भारतस्य स्वभावः द्वन्द्वः न अपितु भ्रातृत्वं-भारतस्य राष्ट्रवादस्य अवधारणा पाश्चात्यचिन्तनात् सर्वथा भिन्ना अस्ति, ते राष्ट्रत्वं न अवगच्छन्ति

    • By editor
    • November 29, 2025
    • 7 views
    भागवतः अवदत्-भारतस्य स्वभावः द्वन्द्वः न अपितु भ्रातृत्वं-भारतस्य राष्ट्रवादस्य अवधारणा पाश्चात्यचिन्तनात् सर्वथा भिन्ना अस्ति, ते राष्ट्रत्वं न अवगच्छन्ति

    रायपुरे मोदी-अध्यक्षतायां डीजीपी-आईजीपी सम्मेलनम्-आन्तरिक सुरक्षा नीति निर्माण विषये चर्चा

    • By editor
    • November 29, 2025
    • 7 views
    रायपुरे मोदी-अध्यक्षतायां डीजीपी-आईजीपी सम्मेलनम्-आन्तरिक सुरक्षा नीति निर्माण विषये चर्चा

    ‘गीडा’ स्थापनादिवसः-सीएम योगी अवदत् यत्, ‘अत्र गोलिकाः प्रहारिताः भवन्ति स्म…सर्वेषां पृष्ठं भग्नं ऋजुं च भवति स्म; अधुना यूपी उत्सवस्य अवस्था अस्ति’

    • By editor
    • November 29, 2025
    • 7 views
    ‘गीडा’ स्थापनादिवसः-सीएम योगी अवदत् यत्, ‘अत्र गोलिकाः प्रहारिताः भवन्ति स्म…सर्वेषां पृष्ठं भग्नं ऋजुं च भवति स्म; अधुना यूपी उत्सवस्य अवस्था अस्ति’

    एबीवीपी राष्ट्रियसम्मेलनम्-एस सोमनाथः अवदत् यत्, ‘राष्ट्रं केवलं युवानां ज्ञानेन, प्रौद्योगिक्याः, शक्तया च प्रगतिः भविष्यति’

    • By editor
    • November 29, 2025
    • 4 views
    एबीवीपी राष्ट्रियसम्मेलनम्-एस सोमनाथः अवदत् यत्, ‘राष्ट्रं केवलं युवानां ज्ञानेन, प्रौद्योगिक्याः, शक्तया च प्रगतिः भविष्यति’

    एकस्य इतिहासस्य धारणाम् सुदृढं कृत्वा, एकस्य भूगोलस्य प्रतीक्षां कुर्वन्

    • By editor
    • November 29, 2025
    • 3 views
    एकस्य इतिहासस्य धारणाम् सुदृढं कृत्वा, एकस्य भूगोलस्य प्रतीक्षां कुर्वन्

    अयोध्या नगरे श्रीराम मन्दिर ध्वजारोहणविषये पाकिस्तानस्य क्रोधः

    • By editor
    • November 29, 2025
    • 6 views
    अयोध्या नगरे श्रीराम मन्दिर ध्वजारोहणविषये पाकिस्तानस्य क्रोधः

    You cannot copy content of this page