(वार्ताहर:- प्रवेशकुमारशुक्ल:, गुजरातम् )
सुखदेव- सेवा-संस्थानस्य महत्सहयोगेन, जी. डी. मोदी कालेज ऑफ आर्ट्स इत्यस्य महा विद्यालयस्य संस्कृताध्ययनकेन्द्रस्य शिक्षकेण च संस्कृत सम्भाषणशिबिरं सञ्चालितमस्ति। अद्य संस्कृतभाषणशिबिरस्य समापनसमारोहः कार्यक्रमः सुसम्पन्नः अभवत्। एतत् सम्भाषणशिबिरं २४ दिसम्बरतः ४ जनवरीपर्यन्तम् आसीत्। संस्कृतभारती गुजरातम् , केन्द्रीयसंस्कृतविश्वविद्यालस्य संस्कृताध्ययन केन्द्रं, सुखदेव-सेवा-संस्थानं पालनपुरं च एतासां संस्थानां सहयोगः आसीत्। संस्कृत सम्भाषण शिबिरस्य आयोजनम् पालनपुरनगरस्य अद्वैतविद्या मन्दिरे , जसरायां जातम् आसीत्। कार्यक्रमस्य सञ्चालनं भागवतः कौटिल्यः नवीनजोशी च अकुर्वन् कार्यक्रमस्य आदौ भारतमातुः पूजनं सर्वैः जातम्, एतस्य अनन्तरं मंगलाचरणं कल्पेशः कालुः च भ्रातरौ कृतवन्तौ। एतस्य अनन्तरं ध्येयमन्त्रं समीरः श्रवणः च कृतवन्तौ तथा च स्वागतगीतम् अभूत् । स्वागतगीतम् अनन्तरं मञ्चे विद्यमानानां सर्वेषाम् अतिथीनां परिचयं प्रास्ताविकभाषणञ्च नवीनजोशी महोदयः अकरोत् कार्यक्रमस्य अध्यक्षरूपेण अद्वैत विद्या सङ्कुलस्य सञ्चालकः मनोजदवे महोदयः आसीत्। अद्य अतिथिरूपेण अद्वैतविद्यालयस्य वित्त विभागस्य प्रमुखःमेहुलदवे-महोदयः आसीत् महोदयेन उक्तं यत् संस्कृतभाषा पुराणानां वेदानां च वर्तते , एषाभाषा सर्वासां भाषाणां जननी अस्ति। संस्कृतभाषा सरला मधुरा भाषा वर्तते, छात्राः संस्कारान् संस्कृतं पठित्वा एव ज्ञास्यन्ति, भारतीय संस्कृतिः विशिष्टा संस्कृतिः अस्ति। अस्माभिः सर्वैः विशेषतः ध्यानं दात्तव्यम्। उद्घाटन कार्यक्रमस्य मुख्यातिथिरूपेण सुखदेव-सेवा-संस्थानस्य सञ्चालकः यशवन्तशास्त्रि वर्यः आसीत्। महोदयेन उक्तं यत् सुखदेव-सेवा-संस्थानस्य बहवः कार्यक्रमाः प्रचलन्ति यथा श्रीमद्भगवत-ज्ञान-गीता, संस्कृतस्य प्रचारः, गौसेवा श्रीमद्भागवतकथा च इत्यादयः प्रचलन्ति। सुखदेव सेवासंस्थानं संस्कृतस्य कृते सर्वदा कार्यं करोति। महोदयेन संस्कृतभावत्याः परिचयं कारयित्वा संस्कृत भाषायाःमहत्त्वंसंस्कृतसम्भाषणस्यवैशिष्ट्यञ्च साररूपेण उक्तम्। एषा भाषा व्यवहारिकी भाषा भूयात् एवञ्च संस्कृतभाषा नैतिकजीवने बहु-महत्त्वपूर्णा भाषा वर्तते । अस्मिन् कार्यक्रमे बहवः छात्राः भागं ग्रहीतवन्तः । कार्यक्रमे संस्कृतगीतं, स्वागतगीतं, अनुभवकथनं, अभिनयगीतं गीताश्लाकान् च एताः प्रस्तुतीः छात्राः अकुर्वन्। संस्कृत सम्भाषण शिबिरस्य विशिष्टानुभव कथनं गौतममहोदयेन कृतम्। कल्पेशः, कालुः, समीरः, श्रवणः, कौटिल्यः , भागवतः, शैलेशः, कृष्णः, गौतममहोदयः, विजयः, महेन्द्रः, अनिलः, चिरागः,प्रिया,श्रिया, दीपिका, च एतेषांद्वारा प्रस्तुतयः जाताः। संस्कृताध्ययनकेन्द्रस्य प्रशिक्षकेन हरिश्चन्द्र महोदयेनप्रमाणपत्रीय-पाठ्यक्रमस्य दक्षतापाठ्यक्रमस्य च द्वयोः विषये उक्तम्। अद्वैत विद्यालयस्य शिक्षकः नवीनजोशीमहोदयः सर्वेषाम् अतिथीनां छात्राणाञ्च आभारं ज्ञापितवान्। कार्यक्रमस्य समायोनं नवीन जोशी छात्रावासस्य प्रमुखः हरसन महोदयः च कृतवन्तौ। उद्घाघनकार्यक्रमे समापनकार्यक्रमे च विद्यालयस्य सञ्चालकः मनोजदवे-महोदयः, यवशन्त महोदयः, मेहुलदवे-महोदयः, दीपिका भगिनी, अन्याः छात्रावासस्य भगिन्यः , नवीनजोशी , हरसन महोदयः, हरिश्चन्द्रः, विद्यालयस्य आधिकारिणः विद्यालयस्य शिक्षकाः शिक्षिकाः इत्यादः उपस्थिताः आसीन्। कार्यक्रमे १०० छात्राः उपस्थिताः आसन। कार्यक्रमस्य कल्याणमन्त्रेण समापनं जातम्।






